तर्कसङ्ग्रहः सपदकृत्यः
भारतीयदर्शनसमुद्रेषु न्यायदर्शनम् अगाधम् अनुपमम् अतिविशालं च वर्तते । । भगवान् महर्षिः गौतमः जगतां दुःखनिवारणस्य मोक्षप्राप्तेश्च उपायान् प्रतिपिपादयिषुः आदौ प्रमाणप्रमेयादीनि सूत्राणि रचयामास । तानि गौतमन्यायसूत्राणीति प्रथितानि सन्ति । ततश्च महर्षिः कणादः अथातो धर्मं व्याख्यास्याम इत्यादीनि सूत्राणि निरचिनोत् । किन्तु एतानि सूत्राणि मन्दप्रज्ञैः दुरवगाह्यानीति मत्वा अनेके च विपश्चिद्वरेण्याः तानि सूत्राणि सरलतया विवरीतुं प्रयतितवन्तः । अतः तत्र अनेकानि अमूल्यानि ग्रन्थरत्नानि भासन्ते । तादृशेषु इदमेकम् आबालवृद्धैः कण्ठे धार्यम्, महोज्ज्वलं सत् शास्त्रज्ञपरिषदि समेषां गौरवाय भवति । एवम् शास्त्रपुरुषस्य मुकुटमणिप्रायः अयम् अन्नम्भट्टः।अन्नम्भट्टेन विरचितः ग्रन्थः तर्कसङ्ग्रहः । न्याय-वैशेषिकयोः शास्त्रयोः सारसङ्ग्रहरूपः अयं ग्रन्थः तर्कशास्त्राध्ययनं प्रविविक्षूणां छात्राणां कृते द्वारायते । अत्र ग्रन्थकर्ता न्यायशास्त्रस्य पारिभाषिकैः पदैः लघूनि हृद्यानि च सूत्राणि विरचय्य, "दीपिका"ख्यां व्याख्यां च स्वयमेव अतनोत् । तत्रायं ग्रन्थारम्भे प्रतिजानीते यथा-
- निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।
- बालानां सुखबोधाय् क्रियते तर्कसङ्ग्रहः ॥ इति ।
दीपिकाख्यायां स्वकृतव्याख्यायामपि वदति यथा-
- विश्वेश्वरं साम्बमूर्तिं प्रणिपत्य गिरां गुरुम् ।
- टीकां "शिशुहितां" कुर्वे तर्कसङ्ग्रहदीपिकाम् ॥ इति ।
एतेन ज्ञायते यत् एष विद्यालयेषु छात्रशिक्षायै प्रयत्नशील आसीदिति । दुश्शकां तर्कशैलीमपि ललितपदबन्धैः निबध्य यथार्थेन तर्कशास्त्रे बालबुद्धीनां प्रवेशिकामेनां रचयितुं सक्षमोऽन्नंभट्ट एव नान्यः ।